पृष्ठम्:शङ्करविजयः.djvu/२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
2
शङ्करविजये

आजन्मनो गणयतो ननु तान् गताब्दान्
माता पिता परिणयं तव कर्तुकामौ ।
पित्रोरियं प्रकृतिरेव​ पुरोपनीतिं
यद्ध्यायतस्तनुभवस्य ततो विवाहम् ॥ ८ ॥

तत्तत्कुलीनपितरः स्पृहयन्ति कामं
तत्तत्कुलीनपुरुषस्य विवाहकर्म ।
पिण्डप्रदातृपुरुषस्य ससन्ततित्वे
पिण्डाविलोपमुपरि स्फुटमीक्षमाणाः ॥ ९ ॥

अर्थावबोधनफलो हि विचार एष
तच्चापि चित्रब​हुकर्मविधानहेतोः ।
तत्राधिकारमधिगच्छति सद्वितीयः
कृत्या विवाहमानि वेदविदां प्रवादः ॥ १० ॥

सत्यं गुरो न नियमोऽस्ति गुरोरधीन-
वेदो गृही भवति नान्यपदं प्रयाति ।
वैराग्यवान् व्रजति भिक्षुपदं विवेकी
नो चेद्गृही भवति 1राजपदं तदेतत् ॥ ११ ॥

श्रीनैष्टिकाश्रममहं परिगृह्य याव-
ज्जीवं वसामि तव पार्श्वगतश्चिरायुः ।
दण्डाजिनीं सविनयो बुध जुहृदग्नैौ
वेदं पठन् पठितविस्मृितिहानिमिच्छन् ॥ १२ ॥

दारग्रहो भवति तावदयं सुरवाय
यावत्कृतोऽनुभवगोचस्तां गतस्स्यात् ।
श्चाच्छनैर्विरसतामुपयाति सोऽयं
किं निह्नुषे त्वमनुभूतिपदं महात्मन् ॥ १३ ॥


^1  का. राजपथम् ।