पृष्ठम्:शङ्करविजयः.djvu/३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
5
प्रथमस्सर्गः

सङ्कल्पितद्विगुणमर्थमहं प्रदास्ये
मद्गेहमेत्य परिणीतिरियं कृता चेत् ।
अर्थं विना परिणयं द्विज कारयिष्ये
पुत्रेण मे गृहण​ता यदि कन्यका स्यात् ॥ २६ ॥

कश्चित्तु तस्याः पितरं बभाण
मिथस्समाहूय विशेषवादी ।
अस्मासु गेहं गतवत्स्वमुष्मै
विगृह्य कन्यामपरः प्रदद्यात् ॥ २७ ॥

तेनानुनीतो वरतातभाषितं
द्विजोऽनुमेने वररूपमोहितः ।
1दृष्टो गुणस्सवरणाय करपते
मन्त्रो हि जापाच्चिरकालभावितः ॥ २८ ॥

विद्याधिराजमरवमण्डितनामधेयौ
सं 2प्रत्ययं व्यतनुतामभिपूज्य दैवम् ।
सम्यङ्मुहूर्तमबिलम्ब्य विचारणीया
मौहूर्तिका इति परस्परमूचिवांसौ ॥ २९ ॥

उद्वाह्य​ शास्त्रविधिना विहिते मुहूर्ते
तौ स3म्मदं 4बहुमवापतुराप्तकामौ ।
तत्रागतो भृशममोदत बन्धुवर्गः
किं भाषितेन बहुना मुदमाप्तवर्गः ॥ ३० ॥

तौ दम्पती सुवसनौ शुभदन्तप​ङ्क्ती
सम्भूषितौ विकसिताम्बुजरम्यवक्त्रौ ।
सव्रीडहासमुख​वीक्षणसंप्रहृष्टौ
देवाविवापतुरनुत्तमशर्म नित्यम् ॥ ३१ ॥


1का. भ्रष्टो । 2का. सुप्रत्ययं । 3क. संमुदं । 4का. मुहुरवापतुः ।