एतत् पृष्ठम् परिष्कृतम् अस्ति


7
प्रथमस्सर्गः

विद्यन्मनाश्शिवगुरुः कृतकार्यशेषो
जयामचष्ट सुभगे किमतः परं 1नः ।
साङ्गं वयोऽर्धमगमत्कुलजे न दृष्टं
पुत्राननं यदिह लोक्यमुदाहरन्ति ॥ ३९ ॥

2एवं प्रिये गतवतोऽसुत​दृश्वनश्चेत्
पञ्जत्वमे*ष्यदथ नऽशुभमापतिष्येत् ।
अस्या ह्युपायमनिशं भुवि वीक्षमाणो
नेक्षे ततो बत जनिर्विफला ममाभूत् ॥ ४० ॥

भद्रं सुतेन रहितौ भुवि के वदन्ति
नौ पुत्रपौत्रसरणिक्रमतः प्रसिद्धिम् ।
लोके न पुष्पफलशून्यमुदाहरान्ते
वृक्षं प्रवालसमये फलितं विहाय ॥ ४१ ॥

3इतीरिते प्राह तदीयभार्या
शिवाख्यकल्पद्रुममाश्रयावः ।
तत्सेवनातो भविताऽधुनाथ
फलं स्थितं जङ्गमरूपमैशम् ॥ ४२ ॥

यत्राभाणि गुरोस्सुवेदपठनं वेदर्थवित्त्या समं
संवादो गुरुशिष्ययोरभिहितो गार्हस्थ्यकर्माण्यथ ।
दम्पत्योस्सुतदृष्ट्युपायकरणे4 संवाद उक्त​रत्ततः।
काव्ये शङ्करदेशिकेन्द्रविजये सर्गोऽयमाद्योऽगमत् ॥ ४३ ॥

॥ इति श्रीशङ्करविजये व्यासाचलीये प्रथमस्सर्गः ॥


1क. नौ ।

2का. एवं प्रिये गतवतोस्सुतदृश्वनोश्चेत्

पञ्चत्वमेष्यदथ नौ शुभमापतिष्यत्

  • अत्र "हेतुहेतुमतोर्लिङ्चे"ति लिङनीमित्तसत्त्वात् "लिङ्निमित्ते लृङ क्रियातिपत्तौ” इति क्रियातिपत्तौ भविष्यति ऐष्यदिति आपतिष्यदिति च लङ इति द्रष्टव्यम् ।

3का. इतीरिता । 4अ. णं ।