पृष्ठम्:शङ्करविजयः.djvu/३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
10
शङ्करविजये

इत्युक्तमात्रे जननी मुमूर्छ
सा किञ्चिदाश्वास्य सुतं बभाषे ।
आलिङ्ग्य​ नो वेत्सि दिशं सुतैकां
पूर्वामुदीचीमथ वा प्रतीचीम् ॥ ११ ॥

त्वं तात दूरं बत मा प्रयासी-
स्तपो हि कर्तुं तव नास्ति शक्तिः ।
1पञ्चाब्दमात्रः पतिता न दन्ता
मां 2किं वदेयुर्जननीमकाले ॥ १२ ॥

वसन्निहैवात्मबलानुरूपं
तपश्च​र त्वं यदि रोचते ते ।
तपस्सहाया भवितास्मि शक्त्या
त्यक्त्वा न हि त्वामिह वस्तुमीशे ॥ १३ ॥

अत्रापि तत्रापि शिवोऽस्ति साक्षात्
स सर्वगो व्योमसमो न मूर्तः ।
मनस्स्थित्वं सुदृढा च भक्ति-
स्तपोनिदानं न तु देशभेदः ॥ १४ ॥

सत्यं शिवस्सर्वगतो न संशय-
स्तथापि सान्निध्यममुष्य कारितम् ।
देशादिना सर्वगकृष्णवर्त्म​नो
व्यक्तिर्यथा वृक्षविशेषगोचरा ॥ १५ ॥

गृहं न योग्यं तपसेऽम्ब सङ्गतं
मित्रादिभिस्तन्निकटं न शस्यते ।
गृहान् परित्यज्य तपोवनं गताः
किं मौर्ख्य​भाजो मुनयः पुरातनाः ॥ १६ ॥


1का. पंचाब्दमात्रे प्रहिते वनान्तं or पंचाब्दमात्रः प्रहितो वनान्तम् ।

2न. निन्दयेयुः किमु मातरं माम् ।