एतत् पृष्ठम् परिष्कृतम् अस्ति


11
द्वितीयस्सर्गः

सत्यं तपश्शैशव एव नूनं न यौवने नापि च वृद्धभावे ।
यूनो विकारस्तपसो हि विघ्नो वृद्धस्तपः कर्तुमनीश एव ॥ १७ ॥

बालं तपस्यन्तमुदीक्ष्य देवाः
कृपां विदध्युस्स हि विस्मयास्पदः ।
शिशुं तदन्यत्र च दुष्करे स्थितं
पश्यन् दयालुर्हि जनोऽनुकम्पते ॥ १८ ॥

औत्तानपादिः किल पञ्जहायन-
स्तपश्चचारातिसुदुस्स्सहं ततः ।
श्रीविष्णुमुद्दिश्य स चाप दुर्लभं
पदं न किं ते श्रुतिगोचरं गतः ॥ १९ ॥

तपश्चरेयं यदि ते समीपे
दृष्ट्वा हि मामुग्रतपश्चरन्तम् ।
जायेत दुःखं प्रतिवासरं ते
ततो वरं दूरत एव वासः ॥ २० ॥

आत्मानमन्यञ्च न श्क्नुवत्या-
स्त्रातुं विदेशे गमनं मया ते ।
दुःरवाच्च दुःखं तदिहाऽऽस्स्व​ मात-
र्गृध्नन्त्यभीष्टं मम नित्यमेव ॥ २१ ॥

इत्थं शङ्करविजये काव्येऽस्मिन् व्यासशैलमुनिरचिते ।
सर्गो द्वितीय आसीत् प्राप्तसमाप्तिसमात्तविविधार्थे ॥ २२ ॥

इति श्रीशङ्करविजये व्यासाचलीये द्वितीयस्सर्गः ।