पृष्ठम्:शङ्करविजयः.djvu/३८

एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ तृतीयस्सर्गः


अनुनीय स मातरं प्रतस्थे
प्रतिवाक्यैरिति तां निरुत्तैरस्तैः ।
अथ तं तपसे प्रयान्तमारा
जननी वाग्भिरमूभिरार्थयत्सा ॥ १ ॥

जोषं प्रयाहि परिपूजय शङ्करं त्वं
कार्यं विधाय पुनरेहि ममान्तिकाय ।
त्वां पश्यतां सुतमिवौरसमात्तहार्दौ
श्रीपार्वतीपुरहरौ प्रणता 1मरद्रू ॥ २ ॥

त्वं तात पूजय शिवं करुणाम्बुराशिं
पञ्चाक्षरीविधिमुपाश्रय शुद्धचेताः ।
नात्रा2तिनीतिनियमोऽखिलजीवनत्वात्
सर्वाधिकारपदमेनमुशन्ति तन्तः ॥ ३ ॥

अनुयतोऽपि निवर्त्य​ सुहृज्जनान्
स्थिरमतिः स्मितशोभिमुखास्बुजः ।।
परिहरन् ममतां गृहगोचरां
हृदयगेन शिवेन समं ययौ ॥ ४ ॥

किमयमाग्निरथो वनदेवता
पथि जनैरिति चिन्तित एककः ।
व्र​जति भोक्तुमना ​​न​ च याचते
विधिवितीर्णकृतात्म 3तनुस्थितिः ॥ ५ ॥


1का. मरौघौ । 2क. नात्रोपनीति ।

3का. हितःशिशुः ।