पृष्ठम्:शङ्करविजयः.djvu/३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
13
तृतीयस्सर्गः

ब्रजसि कुत्र वटो कुत आगतः
किमभिवाञ्छसि कस्य 1तनूद्भवः ।
पथि जनैरिति 2पृच्छ्यत एव स
प्रतिगिरं न ददाति 3निराकुलः ॥ ६ ॥

बहुजलास्सरितस्समहीधराञ्-
जनपदानपि कांश्चिदतीत्य सः ।
पथि गतः परितो गतलेचनो
वनमपश्यदयं तरुमण्डितम् ॥ ७ ॥

वरकुरङ्गसमाकुलमेकतो
भयदसूकरयूथनिषेवितम् ।
अपस्तो गजयूथविभीषण
4किलकिलारवधूर्तवलीमुख​म् ॥ ८ ॥

सरणिभुज्झितवान् गहनाटवी-
मुपविवेश समीहितलक्षणाम् ।
अथ सरस्समुदीक्षितवान् पुरो
निवसनाय मनोऽधित बालकः ॥ ९ ॥

विमलनीरसरोवरतीरगः
स्थिरमहीरुह मूलमुपाश्रयत् ।
स्थिरधियां विपिनं सदनायते
सदनमल्पधियां विपिनायते ॥ १० ॥


1का . तनूभवः । 2क. पृच्छत । 3क. निराकुलम् । 4अ. किलि ।