अभिनिमज्य सर1स्सलिले सुखे
स्थिरमहीरुहमूलवसुन्धराम् ।
किसलयोत्तरदर्भतृणाङ्कुरै-
र्व्यवहितां प्रविधाय मनोरमाम् ॥ ११ ॥
उपनिविश्य ततो हरिदिङ्मुखो
2गदितमन्त्रमुदाहरदैश्वरम् ।
पृथुलदीर्घव3टाङ्घिकृतांशुको
व्यघित वल्लिमसौ कटिसूत्रक्रम् ॥ १२ ॥
मनुवरे शिवदैवतविग्रहे
वि4दधदात्ममनो विषयोपगम् ।
मनुमिमं जपति स्म पुरोदितं
नयनमर्घनिमीलितमुद्वहन् ॥ १३ ॥
मुनिजनोदितवृत्तिम 5सौ व्यधात्
त्रिषवणं सरमीकृतमज्जनः ।
स्थिरनिबद्धसुखासनसंस्थितो
विजनतावनितापरितोषितः ॥ १४ ॥
मितमपीह फलं स निषेवते
न च जहाति भृशं स कदाचन ।
स्वपिति नात्र भृशं न च जागरं
व्रजतेि बालमुनिर्बहुयोगवित् ॥ १५ ॥
क्षुधितसिह्मगणस्सरसीजलं
परिपिपासुरिहाटति खण्डधीः ।
शिशुमुनिं समुदीक्ष्य 6नदन् मनाक्
7चकितवत्प्रपलायति दूरतः ॥ १६ ॥
1क. सुखे सरसीजले । 2क. गदितमैश्वरमन्त्रमुदाहरत् ।
3क. वलाङ्घि का. ममुं तटरोहिणीम् । 4क. व्यदधत् ।
5क. वृत्तिरसौ सुकृत् । 6अ. न दिङ्मना । 7अ श्र ।