पृष्ठम्:शङ्करविजयः.djvu/४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
15
तृतीयस्सर्गः

मृगगणा बहुकालमुदक्षिणात्
परिचयं ययुरन्तिकसंश्रयाः ।
शिशुमुनिं परिवब्रु1रनुद्धताः
परिचयः खलु सौहृदकारणम् ॥ १७ ॥

अथ तरक्षुरुपागमदेकदा
मृगगणानुग​तो मृग​भक्षकः ।
2मृगगणे 3द्रुतवत्यतिरोषणः
शिशुमुनेः पुरतस्स जगर्ज ह ॥ १८ ॥

श्रुतवतः श्रुतिभेदि च 4गर्जितं
शिशुमुनेरुदियाय भयं मनाक् ।
शिवशिवोति तदाऽस्मरवक्षरं
स पतति स्म 5परासुरथोद्वमन् ॥ १९ ॥

वनगजा बहुबृंहितकारिण-
स्सतृष एव जलाशयमावि6शन् ।
मुखविधुं समुदीक्ष्य 7मुनेरथो
मुदितचित्ततया वितृषोऽभवन् ॥ २० ॥

तत इतो 8ज्वलतीह महावने ।
शिशुसमागमनाज्ज्वलनः पुरा ।
स च शशाम तदागममात्रत-
स्सुख​मभूद्विपिने बहुलद्रुमे ॥ २१ ॥


1अ. परिजहरु । 2का. मृगगणं प्रविहाय तु रोषणः ।

3का. गतवत्य । 4क. विगर्जितं ।

5का रधोमुखः । 6क. आगमन् ।

7का. मुनेः शिशोः ।

8का. ज्वलदत्र​ समुज्वलः शिशुमुनेर्ज्वलनो धुरि यो वने ।