पृष्ठम्:शङ्करविजयः.djvu/४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
16
शङ्करविजये

मृगमृगेन्द्रतरक्षुगजादय-
स्सहजवैरनिकेतनमानसाः ।
परिजहुर्निजवैरमनश्वरं
त्वथ पपुस्स​हितास्सरसीजलम् ॥ २२ ॥

त्यजति स स्म फलादिकमेकदा
मुनिरयं दिवसान्तर एति तत् ।
अथ तत प्रतिमासमुपाददे
प्रतिसमं तदपाकृत सर्वदा ॥ २३ ॥

अपि जलेन पुरोदितवर्त्म​ना
मुनिरवर्तत योगबलेन सः ।
अथ भुजङ्गमवृत्तिरभून्मुनिः
1शिवपदामृतसेवनतत्परः ॥ २४ ॥

अथ जपं विरहय्य समाधिना
शिवमुपासितुमारभतोत्तमः ।
करपदादियुतं तरूणेन्दुकं
भसितभासितमुज्ज्वलभूषणम् ॥ २५ ॥

दधतमूर्ध्व​करे परशुं मृगं
वरमभीतिमधस्तनदोर्युगे ।
विशदवर्णमहाम्बुजविष्टरं
परिहितं मृग2भक्षणचर्मणा ॥ २६ ॥

स्मितविकासिमुखाम्बुजशो3भनं
रविहुताशनिशाकरलोचनम् ।
विदधतं प्रभयाऽतिमिरा दिशो
गरलकालिमवासितकन्धरम् ॥ २७ ॥


1का. खजलदा । 2का भक्षक ।

3क. शोभिनं ।