एतत् पृष्ठम् परिष्कृतम् अस्ति


18
शङ्करविजये

हरिहयोऽप्सरसां गणमब्रवीत्
व्रजत यत्र मुनिस्तप​ 1आचरन् ।
वसति तत्र जगत्त्रयमीदृशं
सुचकितं चकितैणदृशो2बलात् ॥ ३३ ॥

शिवमुदीक्ष्य तपश्चरतीत्यसौ
श्रुतमिदं 3हि पुरैव मया परात् ।
स परवान् स्वपदाब्जनिषेविणो
मृगदृशस्सकलं परिदास्यति ॥ ३४ ॥

द्रुतमुमेत्य कुमारवन4स्थलीं
विहत तत्तप आदरतः स्त्रियः ।
मुनिवरं तपसो विनिवर्त्य​ तं
5पुनरिहायत यातनया भृशम् ॥ ३५ ॥

निगदिता हरिणेति सुराङ्गना
हरिहयाय ददुर्वचनं स्फुटम् ।
अवहितश्शृणु नो वचनं प्रभो
वयममूर्व​चने तव संस्थिताः ॥ ३६ ॥

युवसु लब्धपदा वयमीदृश-
स्स हि न वेत्ति विभो युवतीहितम् ।
स किल पञ्चसमस्तपसाधिको
ध्रुवमसौ वितरिष्यति शापकम् ॥ ३७ ॥

न हि वयं शलभायितुमीश्महे
मुनिवरस्य रुडुग्रहुताशने ।
निपतिता बहवोऽपि पुरातना
6मुनिजनान् परिपीड्य तपस्यतः ॥ ३८ ॥


1क. आचरत् । 2अ. दृशोऽबलाः।

3अ. दं पुर एव ।; का. दं पुर एवमथापरात् ।

4क. स्थलं । 5क. पुनरिहेत यथायतनं भृशम् ।

6अ भुवि जनान् हि निपीड्य ।; का मुनिजनानभिविश्य ।