पृष्ठम्:शङ्करविजयः.djvu/४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
19
तृतीयस्सर्गः

स तव किं प्रविधास्यति बालकः
स्पृहयति 1प्रथिताय पदाय नः ।
अपदसं2भ्रमिता 3परभीरूता
प्रकृतिसिद्धमिदं 4स्व​यमिन्द्र ते ॥ ३९ ॥

इति वचः श्रुतवान् वलसूदनः
प्रतिजगाद चलाधरपल्लवः ।
भगधना भजताशु 5विगद्य​ मा
कुठिलचारुवचोहृत 6मानसाः ॥ ४० ॥

प्रथितमस्त्रमिदं स्वयमेव मे
कुलिशमेकमरातिषु दुर्जयं ।
मुनिजनेषु तपस्विषु वो वपु-
स्तदपि कुण्ठितमद्य 7भयाकरम् ॥ ४१ ॥

व्यसनकालबहिःस्थितशालिभिः
परिजनैः फलमस्ति न किञ्चन ।
द्रुत​मितोऽपसरन्तु वराङ्गना
न मम दृष्टिपथे 8विचरन्तु ताः ॥ ४२ ॥

इति वचस्समुदीर्य पुरन्दरः
परिजनैस्सहिते विधिविष्टपम् ।
उपययौ स ददर्श चतुर्मुखं
व्यसनमेतदसूचयदुत्थितम् ॥ ४३ ॥


1अ. प्रहिताय । 2अ. संभ्रमता ।

3वद । 4अ. द्वयमिन्धते ।; का. द्वयमिन्द्र ते ।

5अ. विगाद्य ।; क. विटाधमाः; का विगायनाः । 6हृतमाशु मे ।

7का. भयङ्करम् । 8का. चरताधुना ।

Sankara— 2A