पृष्ठम्:शङ्करविजयः.djvu/४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
21
तृतीयस्सर्गः

1स वुवुधे विबुधाधिपतिर्हरिः
सुरवरागमनेन समं समः ।
तदिह शक्रमनोरथसूचितं
यदनिशं शयितोऽपि विबुद्धवान् ॥ ४९ ॥

2तत उदैक्षत देवमनिन्दितं
सुरगणमुरवर्यपुरस्सरः ।
भुजगभोगनिविष्टममीष्टदं
सजलनीरदवर्ण​सभद्युतिम् ॥ ५० ॥

3तत उदीरितवान्कमलाधिपं
गुरुरुपस्थितकार्यविशेषवित् ।
शृणु हरे व्यसने समुपस्थिते
वयमिहागमने विहितोद्यमाः ॥ ५१ ॥

न ख​लु विद्म वयं व्यसनान् पुरा
न च पुनर्विहिते4ऽभिमते प्रभो ।
न हि शिशोरपराधमुदीक्षते
गुरुजनः 5कृपया परया युतः ॥ ५२ ॥

अविदितं तव​ नास्ति जगत्त्रये
सकलबुद्धिगुहागृहवासिनः ।
तदपि किञ्चिदुदीर्यत एव ते
व्यसनमागतमन्यत एव नः ॥ ५३ ॥

मुनिसुतः प्रथमे वयसि स्थित-
श्चरति घोरतपः स्थिरमानसः ।
न किल 6केऽपि पुरेदृशमाचर-
न्न च पुनश्चरितार इति श्रुतम् ॥ ५४ ॥


1क. विबुबुधे । 2का सतमुदैक्षत ।

3का. इदमुदी । 4अ. विदिते ।

5क. कृशया कृपया । 6क. के च ।