पृष्ठम्:शङ्करविजयः.djvu/५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
24
शङ्करविजये

हरिहरावथ तुष्टवुरादृताः
मुनिगणाः स्तुतिभिः स्तुतिकोविदाः ।
भुवनपालक देव नमोऽस्तु ते
हर नमो हरते त्रिजगन्त्यपि ॥ ६६ ॥

असितकण्ठ नमोऽस्तु विषाशिने
सरसिजाक्ष नमोऽस्तु दिवानिशम् ।
कुरु कृपामनिशं गिरिजापते
सरसिजाक्ष कठाक्षमितः कुरु ॥ ६७ ॥

मुररिपो जय तेऽस्तु नमो नमः
पुररिपो जय तेऽस्तु नमो नमः ॥
गरुडवाहन 1तेऽस्तु नमो नमो
वृषभवाहन देव नमो नमः ॥ ६८ ॥

भुजगभूषण देव नमोऽस्तु ते
मुजगभोगशयाय नमोऽस्तु ते ।
तरुणचन्द्रकिरीठ नमोऽस्तु ते
विविधरत्नकिरीठ नमोऽस्तु ते ॥ ६९ ॥

स्मरणमात्रघुताघचयौ नमो
मुनिजनालिनिषेव्यपदाम्बुजौ ।
हरिहरौ नतिरस्तु सदापि वां
कुरुतमिष्टमनिष्टहनौ 2शिवौ ॥ ७० ॥

पदसरोजविनिर्गतगङ्ग ते
नतिरियं प्रणतार्तिविभंञ्जन ।
हर 3जठापठलीगसरिद्वर
नतिरियं जितकाल नमो नमः ॥ ७१ ॥


1 अ. च । 2अ. हरौ शिवम् ।

3का. परिलीढ ।