पृष्ठम्:शङ्करविजयः.djvu/५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
25
तृतीयस्सर्गः

पितृवनाधिनिवास नमोऽस्तु ते
1बदरिकावनवास नमोऽस्तु ते ।
जलनिधिप्रिय देव नमोऽस्तु ते
गिरिवरप्रिय देव नमोऽस्तु ते ॥ ७२ ॥

2मुनिगणैः स्तुवतस्सह शङ्करः
सुरगणानवद 3किमिहागमम् ।
वदत कार्यमसंशयमाशु मे
बहुसमागमनं सनिमित्तकम् ॥ ७३ ॥

गुरुरुवाच सुरेन्द्रमतानुगः
पशुपते यदपृच्छदुदारधीः ।
तदिदमत्रभवन् मम मोहनं
विदितसर्वतया 4विदितं नु ते ॥ ७४ ॥

5निवसता भवतेह 6समुत्थितं
विदितमेव 7ततो न निगूहनम् ।
व्यसननिर्गमकारणमुच्यतां
न भवतोऽन्य इदं व्यपनेष्य​ति ॥ ७५ ॥

निगदिते गुरुणेति शिवोऽब्र​वती-
द्विदितकार्यविधित्सुरविक्लबम्8
परिहराणि भयं शिशुकारितं
न हि भये भ​वतां मयि पालके ॥ ७६ ॥

9मुनिसुतं तपसो विनिवर्त्य​ तं
व्यसनतो भवतो विनिवर्तये ।
10न च अयं शिशुतोऽस्ति तपस्यतः
व्रजत घाम यथागतमेव तत् ॥ ७७ ॥


1अ. पद । 2अ. मुनिजने स्तुतवत्यथ ।; का मुनिजनैः ।

3अ. आगमन् ।; का. आगतम् । 4क विदितं न ते ।

5क-इह सदा ।; का. इह सता भव तेन । 6क. समुज्झितं ।

7का. ततोऽपि । 8अ. रवीश्वरम् ।

9अ. सुनिशिशुं । 10अ. हि ।