पृष्ठम्:शङ्करविजयः.djvu/५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
26
शङ्करविजये

गतवति प्रणिपत्य सुराधिप-
प्रमुखदेवगणे गिरिशं गिरेः ।
पशुपतिर्निरगान्मुनिबालकं
सतपसं तपसो विनिवर्तयन् ॥ ७८ ॥

1अभिसरद्वृषभेण हरोऽभवत्
सुरपतिर्वृषभोऽपि 2चतूरदः ।
गजपतिर्गिरिजापि शची तदा
विविदिषुर्मनसा 3स्थिरतां शिशोः ॥ ७९ ॥

4अपगणस्सरतामभिजग्मिवान्
गणपति5र्न​लकूवरतां गतः ।
रसमुखोऽपि जयन्तवपुर्ध​रो
ऽजनि 6वधूजनिता 7सुरवल्ल​भाः ॥ ८० ॥

अजगवं कुलिशाकृति सद्बभौ
शशिकलां सुमनश्श्वयरूपिणी ।
अहिततिः किल भूषणतां गता
8नठनटीचरितं 9सकलो विभुः ॥ ८१ ॥

उपशिशु स्थितवान् स शचीपतिः
न च विवेद समाधिगतोऽर्मकः ।
शिशुमुखं शनकैरवलोकयन्
स च तुतोष 10हरिः करुणानिधिः ॥ ८२ ॥

न च बुबोध यदा शिशुरग्रतः
स्थितमबूबुधदुत्थितवृह्मितैः ।
नयनवारिरुहे शिशुभानुमान्
किमिदमित्युदमीलयदेकदा ॥ ८३ ॥


1अ. अभिसरन् । 2क. च दुरतः ।; का. चरन्मदः ।

3अ. मनसः । 4अ. अपि गणः सुरतां ।

5का.नलकेश्वरतां । 6का. वधूर्जनिता ।

7अ. सुरवल्लभः । 8अ. नदनदी ।

9का. सकलं । 10क. ह​रः ।