पृष्ठम्:शङ्करविजयः.djvu/५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
27
तृतीयस्सर्गः

न गणयन् पुनरेव समाधिभाग-
भवदुग्रतपा मुनिबालकः ।
अभिजगाम सुविस्मयमुद्ध​तां
शिशुमनःस्थिरतामुपलभ्य सः ॥ ८४ ॥

शिशुमवोचत वृत्ररिपुर्वचः
क्व च तपस्सुकुमारमिदं वपुः ।
क्व च वयस्तव 1पञ्चसमान्मितं
क्व च तवेयमनल्पविगागिता2 ॥ ८५ ॥

वपुषि वत्स गते किमु 3लप्स्यते
सति हि तत्र पुमर्थगतिर्भवेत् ।
व्रजं सुखं त्यज दुःखतरव्रतं4
तनुदहा तपसा तव किं फलम् ॥ ८६ ॥

यदि सुखं तव लिप्सितमेहि भो
मम पद सुरवर्यनमस्कृतम् ।
यदिह 5वित्तगता वितराणि ते
किमु फलं 6तनुशोषणकर्मणा ॥ ८७ ॥

उपवनेषु वनेषु सुखेषु मे
विहर मत्तनयैस्सह 7सुव्रत ।
सुरभिपुष्परजस्सुसमीरण-
प्रकटसौरभयोगसुगन्धिषु ॥ ८८ ॥


1क. शरन्मितं । 2अ. विरागता ।

3अ. लभ्यते । 4अ. तरं ।

5अ. हतं ।; का. विश्वसुखं ।; क. शतं । 6का. तव शोषण ।

7का. संवृतः ।