पृष्ठम्:शङ्करविजयः.djvu/५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
28
शङ्करविजये

यदि च भौमतले तव 1वा स्पृहा
सुलभमद्य 2ददामि वदाशु तत् ।
यदि बिभेषि 3सुदुस्सहशात्रवात्
तदपि हन्मि शिशो न विचारणा ॥ ८९ ॥

यदिह कर्म न शर्मण आत्मनो
न च परस्य सुखाय कथञ्चन ।
4विधिसदो न वदन्ति पुरातना-
स्तव च तादृशमेव समीक्ष्यते ॥ ९० ॥

5यदिह पक्ष्मकवाटमिदं द्वयं
नयनयोर्विवृतं कुरू बालक ।
हरिहयोऽस्मि विलोकय मे वधू-
रियमयं गजपश्शुभदर्शनः ॥ ९१ ॥

न च विहन्तु6मिमं तव आगमं
तव शिशुत्वमुदीक्ष्य कृपाभरात् ।
अपि विधातुमिदं सफलं तपो
वद तपो यदि ते 7फलवर्जनम् ॥ ९२ ॥

तव शरीरसमुत्थिततेजसा
जगदिदं परितापमुपैति भोः ।
जगदनिष्टफलाऽविहितक्रिया
मुनिजनः 8परतापहरो मतः ॥ ९३ ॥

शिशुरथो नयने उदमीलयत्
सुरवरान् समुदैक्षत 9विस्मितः ।
अपि जगाद वचस्सुरनायकं
मम तपस्सफलं तव तेन कॅिम् ॥ ९४ ॥


1अ. च​ । 2क. ददानि ।

3अ. दुर्जय । 4अ. पदं ।

5अ. घटित । 6अ. इदं तप ।

7क. वर्ध​नम् । 8अ. परि ।

9का. सस्मितम् ।