इति शिवेन वचस्समुदीरितः
प्रतिजगाद वचः परितोषयन् ।
स्तिमितनेत्रयुगेन 1शिवं पिबन्
पुलकपुष्पितगात्रलतश्शिशुः ॥ १०७ ॥
सुतहितं वदितुं पितरौ युवां
अधिकृतौ न सुतोऽर्हति भाषितुम् ।
अहमिदन्तु वृणे परमार्थत-
स्तव पदाम्बुजभक्तिमनश्वराम् ॥ १०८ ॥
इति निशम्य वचः परमेश्वरो
मुनिसुतं निजमङ्कमजीगमत् ।
मुनिसुतस्य मुखं परिजिघ्रवान्
3भवभयाञ्च बहिर्निरगान्मुनिः ॥ १०९ ॥
मुनिपुराचरितन्त्व4वदच्छिवः
प्रमुदितोदितदुग्धमहार्णवम् ।
मुनिसुताय युताय 5विघाय तं
6मुनिगदुर्दशतापि तिरोदधे ॥ ११० ॥
गिरिसुतापि 7निजाङ्कमनीनयत्
मुनिसुतं प्रददौ स्तनजं पयः ।
मम सुतोऽसि निजस्त्वमतः परं
विहर तात यथासुखमूचिषी ॥ १११ ॥
8अपि शिशो 9विदितोऽसि महागमा-
न्मम षडाननपद्मविनिर्गतान् ।
सकलवर्गनिदानविबोधना-10
न्गुरुकृपासुलभान् भवदाहिनः ॥ ११२ ॥
1अ. शिवौ । 2का. जिघ्रिवान् ।
3अ. भवभयं निरगाच्च बहिर्मुनेः । 4क. विदञ्छिवः ।
5अ. धुताघचयाय । 6का. मुनिवपुर्दधतेव तिरोदधे ।
7का. मुपानयत् । 8अ. अयि ।
9का. विदिता । 10अ. विबोधकान् ।