उपससार महापयसां निधिः
पशुपतेरनुशासनतश्शिशोः ।
झटिति विश्वसनं जनयन् ब्रुवन्1 ।
निबिडशारदचन्द्रिकया समः ॥ ११३ ॥
विविधपुष्पफलास्सुरपादपा-
श्शिशुमुपासितुमामुरनुत्तमाः ।
मृदुगतिश्ववना2 धुतपल्लवाः
सुखदपक्षीनिकायनिकूजिताः ॥ ११४ ॥
स्मरति यच्छिशुरस्य पुरः पुरा
पतति तन्मनसोऽपि विकल्पना ।
शिशुरुवाच महागुणसंहति-
3र्मुनिजनैर्विबुधैरपि दुर्लभा ॥ ११५ ॥
इति महागुणसिद्धिमवाप्य 4स-
च्छिवाशिवानुमतेन गृहं ययौ ।
प्रणिपपात स 5मातृपदाम्बुज
शिशुमुदीक्ष्य 6मुमोद जनन्यपि ॥ ११६ ॥
व्यासाचलेन रचिते मधुरेऽनवद्ये
काव्ये ययौ द्रुतविलम्बितवांस्तृतीयः ।
सर्गो निसर्गविमलः परमपिमन्यु-
7माहात्म्यभाषणपरः 8कथया हि मोदी ॥ ११७ ॥
॥ इति श्रीशङ्करविजये व्यासाचलीये तृतायस्सर्गः ॥
1अ. स्फुटम् । 2का. नायुधपल्लवाः ।
3अ. गणैः । 4अ. सन् ।
5का पदाम्बुजम् । 6अ. तुषोष ।
7क. पदः । 8अ. कथयाभिमोदी ।