पृष्ठम्:शङ्करविजयः.djvu/५९

एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ चतुर्थस्सगः


एवं फलप्रद1मुनीश्वरमीश्वराणा-
मीशं 2भजाव किमितस्सकलार्थसिद्ध्यै ।
तत्रोपमन्युमहिमा परमं प्रमाणं
नो देवतासु जडिमा जडिमा मनुष्ये ॥ १ ॥

एवं कलत्रवचनं स निशम्य 3भक्त्या
सम्पूजनाय गिरिशस्य मनो दधार ।
सा तस्य दुश्चरतपश्चरणोद्यतस्य
तत्रानुकूल्यमकरोद्गृहवाटिकायाम् ॥ २ ॥

तस्योपधाम किल सन्निहितापगैका
स्नात्वा सदाशिवमुपास्त जले स तस्याः ।
कन्दाशनः कतिचिदेव दिनानि पूर्वं
पश्चात्तदाऽऽस शिवपादयुगाब्जभृङ्गः ॥ ३ ॥

जायापि तस्य विमला नियमोपतापै-
श्चिक्लेश कायमनिशं शिवमर्चयन्ती ।
क्षेत्रे वृषस्य निवसन्तमलं सुतार्थं
कालोऽत्यगादति4 तयोस्तपतोरनेकः ॥ ४ ॥

देवः कृपापरवशो द्विजवेषधारी
प्रत्यक्षतश्शिवगुरुं गत आत्तनिद्रम् ।
प्रोवाच भोः किमभिवाञ्छसि किं तपस्ते
पुत्रार्थितेति वचनं स जगाद विप्रः ॥ ५ ॥


1अ. मपीश्वर । 2क. भजाव कमितः ।; का. भवाय किमतः।

3अ. कर्ता । का. भर्ता । 4 अ. °दिति ।