एतत् पृष्ठम् परिष्कृतम् अस्ति


36
शङ्करविजये

उक्ष्णा निसर्गधवलेन महयसा 1सा
चात्मानमैक्षत समूढमुपात्तनिद्रा ।
सङ्गीयमानमपि गीतविशारदाद्यै-
र्विद्याधरप्रभृतिभिर्विनयोपयातैः ॥ १७ ॥

2आकर्ण​यन् जय जयेति वरं दधाना
रक्षेतिशब्दमवलोकय मादृशेति ।
3आकर्ण्य​ नोत्थितवती पुनरुक्तशब्दं
सा विस्मिता किल शृणोति निरीक्षमाणा ? ॥ १८ ॥

मानुष्यधर्ममनुसृत्य मयैतदुक्तं
काऽपि व्यथा शिवमहोधरणेन वध्वाः ।
सर्वव्यथास्यतिकरं 4प्रतिकर्तुकामाः
देवं भजन्त इति तच्वविदां प्रवादः ॥ १९ ॥

लग्ने शुभे शुमयुते सुषुवे कुमारं
श्रीपार्वतीव सुखिनी शुभवीक्षिते च ।
जाया सती शिवगुरोर्निजतुङ्गसंस्थे
सूर्ये कुजे रवियुते च गुरौ च केन्द्रे ॥ २० ॥

दृष्ट्वा सुतं शिवगुरुः शिववारिराशौ
मग्नोऽपि धर्ममनुसृत्य जले न्यमाङ्क्षीत् ।
5व्यश्राणयत् बहुधनं वसुधाञ्च गाश्च
जन्मोक्तकर्म विदधे द्विजपुङ्गवेभ्यः ॥ २१ ॥

तस्मिन्दिने मृगतरक्षुकरीन्द्रसिह्म​-
सर्पाखुमुख्यवहुजन्तुगणा द्विषन्तः ।
वैरं विहाय सह चेरुरतीव हृष्टाः
कण्डूमपाकृषत साधु मिथो निघुष्टाः ॥ २२ ॥


1अ. असावात्मान । 2अ. आकर्णयत् ।

3अ. आकर्णितोत्थितवती । 4अ. परिहर्तु ।

5का. विश्राणयन् ।