एतत् पृष्ठम् परिष्कृतम् अस्ति


37
चतुर्थस्सर्गः

वृक्षा लताः कुसुमराशिफलान्यमुञ्चन्
नद्यः प्रसन्नसलिला निखिलास्तदैव ।
जाता जहुर्जलघयोऽपि निजं विकारं
भूभृद्ग​णादपि जलं सहसोत्पपात ॥ २३ ॥

1अद्वैतवादिविपरीतमतावलम्बि-
2हस्ताग्रवर्तिवस्पुस्तकमप्यकस्मात् ।
उच्चैः पपात जहसुः श्रुतिमस्तकानि
श्रीव्यासचित्तकमलं विकचीबभूव ॥ २४ ॥

सत्कारपूर्व​मनुयुक्तमुहूर्तवेदि-
विप्राश्शशंसुरभिवीक्ष्य सुतस्य जन्म ।
सर्वज्ञ 3एष भविता रचयिष्यते च
शास्त्रं स्वतन्त्रमथ 4वागाधपांश्च जेता ॥ २५ ॥

कीर्तिं स्वकां भुविं विधास्यति यावदेष
किं 5वोदितेन बहुना शिशुरेष पूर्णः ।
6नापृच्छि जीवितमनेन च तैर्न चोक्तं
प्रयो विदन्नपि न वक्ति मनोनिरोधि ॥ २६ ॥

तज्ज्ञातिबन्धुसुहृदिष्टजनाङ्गनास्ता-
स्तं सूतिकागृहनिविष्टमथो निदध्युः ।
सोपायनास्तमभिवीक्ष्य यथा निदाघे
चन्द्र क्षुदं ययुरतीव सरोजवक्त्रम् ॥ २७ ॥

7तत्सूतिकागृहमवेक्ष्य तनुप्रदीप्तं
तत्तेजसा यदवभातमभूत् क्षपायाम् ।
आश्चर्यमेतदजनिष्ट समस्तजन्तो-
स्तन्मन्दिरं वितिमिरं यदभूददीपम् ॥ २८ ॥


1अ. वाद । 2क. पर ।

3का एव । 4का. वागधिपां च ।

5अ. चोदितेन । 6का. पृष्टं न ।

7अ. अवैक्षत न प्रदीपम् ।