एतत् पृष्ठम् परिष्कृतम् अस्ति


38
शङ्करविजये

यत्पश्यतां शिशुरसौ कुरुते शमम्यं
तेनाकृतास्य जनकः किल शङ्कराख्याम् ।
यद्वा चिराय किल शङ्करसम्प्रसादात्
जातस्ततो व्याधित​ शङ्करनामधेयम् ॥ २९ ॥

सर्वं विदन् सकलशक्तियुतोऽपि बालो
मानुष्य 1जातिमनुकृत्य चचार तद्वत् ।
बालश्शनैर्हसितुमारभत क्रमेण
2सृप्तुं शशाक गमनाय पदाम्बुजाभ्याम् ॥ ३० ॥

भाषामवेत्प्रथमहायन एव बालः
वर्णान्पपाठ किल हायनके द्वितीये ।
ग्रस्ताक्षराण्यपि स वाचयितुं प्रगल्भः
काव्यं पुराणमितिहासकथाः पपाठ ॥ ३१ ॥

कर्माणि तस्य जनकः 3श्रुतिचोदितानि
कुर्वञ्जरन्नपि तुतोष सुतेन्द्रदृश्वा ।
तं 4पश्चमाब्द उपनेतुमनास्स एव
पञ्चत्वमाप दुरतिक्रम 5एष कालः ॥ ३२ ॥

आलोक्य वल्लभर्मृतिं करुणं सबाला
वृद्वा रुरोद विललाप च भर्तृशोकात् ।
हा हन्त नाथ शिशुमध्वनि 6मुञ्चमानः
गन्तुं क्व वा समभिवाञ्छसि देहि वाचम् ॥ ३३ ॥

कृच्छ्रेण लब्धशिशुरेष चिरं स जीवेत्
मावाथयान्तमनुयामि भवन्तमद्य ।
बालं विमुच्य जरतीमपि मां प्रियाद्य
यातस्य कि 7नु सफलं वद देहि दृष्टिम् ॥ ३४ ॥


1अ. मनुसृत्य​ । 2का. स्नप्तुं ।

3अ. बोधितानि । 4अ. मुपनेतुं ।

5का. एव । 6का. मां च मुक्त्वा ।

7अ. किं तव फलं ।