पृष्ठम्:शङ्करविजयः.djvu/६५

एतत् पृष्ठम् परिष्कृतम् अस्ति
39
चतुर्थस्स​र्गः

तां बन्धुताभ्य​धित कालवशं प्रयान्तीं
सन्तोऽपि कालमतिलङ्घयितुं न तेऽपि ।
शक्तास्ततो जरति बालमिमं निसर्गात्
प्राज्ञं प्रपाहि कुरु संस्कृतिमस्य शीघ्रम् ॥ ३५ ॥

कश्चिन्मृतिं व्रजति कश्चन जायतेऽस्मि-
न्संसारमार्ग इति कल्पितकल्पनेयम् ।
तस्मान्न शोच्यमनघ गृहरक्षिका स्या
वालेन साकमधुन त्यज शोकमेनम् ॥ ३६ ॥

एवं स्वबन्धुगदिता 1स्वयमुत्ससर्ज
संस्कार​मात्मकमितुः श्रुतिदृष्टमार्गात् ।
साचीकरत्स​त​नया स्वहितैस्सपिण्डैः
2श्राद्धादि कर्म च सदीक्षमनुक्रमेण ॥ ३७ ॥

दीक्षां समाप्य विधिवत्किल पञ्चमाब्दे
3सौम्ये मुहूर्त उपनीतिमचीकरत्सा ।
बालस्य गृह्यविधिनां श्रुतिषु प्रवीणैः
स्वैर्ब्राह्म​णानपि ततर्प विचित्रभोज्यैः ॥ ३८ ॥

स ब्रह्मचर्यमनुरुध्य निजं स्ववेद-
मध्यैष्ट वेदमपरं तदनु क्रमेण !
एवं गुरोः पठितवांश्चतुरोऽपि वेदान्
तन्मूलमस्य कथयन्ति यजुस्समाख्यम् ॥ ३९ ॥

माता क्रमेण जरती व्यठितुं न शक्ता
स्नानादि कर्म न विमुञ्चति सा तथापि ।
ईषद्विदूरगनदीं किल शङ्करोऽसा-
वात्मीयमन्दिरसमीपगतां व्यधत्त ॥ ४० ॥


1अ. कथिता । 2अ. सम्यङ् ।