एतत् पृष्ठम् परिष्कृतम् अस्ति


40
शङ्करविजये

अद्यापि केरलजनास्समुदीरयन्ति
स्रोतस्विनीं बहुजवां विधुताघपुञ्जाम् ।
अम्बापगेति 1यदियं तनयेन मातु-
स्सौख्यार्थमात्मनिलयान्तिकगा 2व्यधत्त ॥ ४१ ॥

सा शङ्करस्य शरणं स च तज्जनन्या
अन्योन्ययोगविरहस्त्वनयोरसह्यः ।
नोद्वोढमिच्छति तथाप्यमनुष्यभावा-
न्मेरुं गतः किमभिवाञ्छति दुष्प्रदेशम् ॥ ४२ ॥

प्रातश्च​ सायमपि मज्जनमत्र बालो
नादेयवारिणि करोति स सर्वकालम् ।
स त्वेकदा जलमगाहत मङ्क्तुकाम-
स्तञ्चाग्रहीज्जलचरः किल तीक्ष्णदंष्ट्रः ॥ ४३ ॥

भक्तोऽपि मातरि स संन्यसनं 3चिकीर्षन्
स्रोतस्विनीजलगनक्रगृहीतमाख्यत् ।
आत्मानमक्षततनुं जननीति शोचन्
साप्यागता परवशा स्थितदेहमात्रा ॥ ४४ ॥

साऽब्रूत​ किं सुत विरोदिषि सोऽभ्यधात्तां
नक्रोऽम्ब मां नयति तीब्रतनुर्ब​लाढ्यः ।
प्रणान्विधारयितुमुत्सह एव नाद्य
सन्न्यासवेषकरणे मम जीवितं स्यात् ॥ ४५ ॥

सन्यासमेकतनया तनयं कथञ्चि-
न्नो कारयेत 4जननी तदपीह माता ।
सर्वात्मना नशनतो न्यसनं वरं मे
तस्मिस्तु लोचनयुगे न हि दर्शनं स्यात् ॥ ४६ ॥


1अ. यदिमां तनयः स्वमातुः । 2अ. कगां ।

3अ. चिकीर्षुः । 4का. जगतीह न कापि माता ।