पृष्ठम्:शङ्करविजयः.djvu/६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
41
चतुर्थस्सर्गः

आलोच्य सा तनयसन्न्य​सनाय बुद्धिं
चक्रे ततोऽभ्यधित सन्न्यसनं कुरुष्व ।
सन्यस्तमित्यभिदधौ वचनं तदानीं
नद्यास्तटं सुख​मवाप स नक्रमुक्तः ॥ ४७ ॥

उक्त्वा मुमूर्छ​ जननी पतिता क्षितौ सा
तां चाभिषिच्य पयसा समजीवयत्सः ।
प्रोवाच मा जननि शोकवशं गता भू
वक्ष्याम्युपायमनघे तव रक्षणाय ॥ ४८ ॥

मातर्विधेयमनुशाघि यदत्र कार्यं
सन्या1सिना तदु करोमि न 2सन्दिहेऽहम ।
वस्त्राशने तव यथेष्टममी प्रदद्यु-
र्गृण्हन्ति ये धनमिदं मम पैतृकं यत् ॥ ४९ ॥

देहेऽम्ब रोगवशगे च सनाभयो मे
द्रक्ष्यन्ति शक्तिमनुसृत्य मृतिप्रसङ्गे ।
अर्थग्रहाज्जनभयाञ्च यथावधानं
कुर्युश्च संस्कृतिममी 3न च भेयमीषत् ॥ ५० ।।

यज्जीवितं जलचरस्य मुखात्तदिष्टं
संन्यास 4सङ्गरवशान्मम 5देहपाके ।
संस्कारमेत्य विधिवत्कुरु शङ्कर त्वं
नो चेत्प्रसूय मम किं फलमीर​य त्वम् ॥ ५१ ॥

अह्व्य​म्ब रात्रिसमये समयान्तरे वा
सञ्चिन्तय स्ववशगाऽवशगाऽथवा माम् ।
एष्यामि तत्र समये सकलं विहाय
विश्वासमाप्नुहि मृतावपि संस्करिष्ये ॥ ५२ ॥


1अ. संन्यासिनां । 2अ. संशयीऽत्र​ ।

3अ. नविमेयमीषत् । 4अ. सङ्कर ।

5अ. पाते ।