एतत् पृष्ठम् परिष्कृतम् अस्ति


42
शङ्करविजये

संन्यस्तवान् शशुरयं विधवामनाथां
क्षिप्त्वेति मां पथि कदापि न चिन्तनीयम् ।
यावन्मया स्थितवता फलमापनीयं
मातस्ततश्शतगुणं फलमापयिष्ये ॥ ५३ ॥

इत्थं स मातरमनुग्रहणेच्छुरुक्त्वा
प्रोचे सनाभिजनमेष विचक्षणाव्र​यः ।
संन्यासकल्पितमना ब्र​जितास्मि दूरं
तां निक्षिपामि जननीमधुना भवत्सु ॥ ५४ ॥

एवं सनाभिजनमुत्तममुत्तमाग्र्यः
श्रीमातृकार्यमभिभाष्य करद्वयेन ।
संप्रार्थ्य​ तां स्वजननीं विनयेन तेषु
निक्षिप्तवान् 1स नयनाम्बु विमुञ्चमानाम् ॥ ५५ ॥

आत्मीयमन्दिरगतां2 भयदामसौ यत्
चक्रे विदूरगनदीं जननीहिताय ।
तत्तीरसंश्रितयद्द्व​हधाम किञ्चिन्
सा निम्नगाऽऽरप्र​त ताडयितुं तरङ्गैः ॥ ५६ ॥

वर्षासु वर्षति हरौ जलमेत्य किञ्चि-
दन्तः पुरं भगवतोऽपनुनोद मृत्स्ना ।
आरब्घमूर्तिरनघश्चलितुं क्रमेण​
3देवो विभेदिव न मुञ्चति मीर्हि साङ्गम् ॥ ५७ ॥

प्रस्थातुकामम4नसं भगवननङ्ग-
वाचावदत्कथमपि प्रणि5पत्य मातुः ।
पादारविन्दयुगलं परिगृह्य चाज्ञां
श्रीशङ्करं जनहितैक6रतं स कृष्णः ॥ ५८ ॥


1अ. नयनजाम्बु । 2अ. समीपगतां यदासौ ।

3का. देवेऽविमेदिव । 4अ. अनघं ।

5अ. प्रतिपत्य । 6 अ. रसं ।