पृष्ठम्:शङ्करविजयः.djvu/६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
43
चतुर्थस्सर्गः

आनेष्ट दूरगनदीं कृपया भवान्यां
सा मातिमात्रमनिशं बृहुलोर्मिहस्तैः ।
क्लिश्नाति ताडनपरा वद कोऽभ्युपायो
वस्तुं 1क्षमो न नितरां द्विजपुत्र याति ॥ ५९ ॥

आकर्ण्य​ वाचमिति तामतनुं गुरुर्नः
प्रोद्धृत्य कृष्णमचलं शनकैर्भुजाभ्याम् ।
प्रातिष्ठिपन्निकट एव स यत्र बाधा
नाभ्येत्युदीर्य सुखमास्व​ चिरायुरेधि ॥ ६० ॥

तस्मात्स्वमातुरपि भक्तिवशादनुज्ञा-
मादाय 2संसृतिमहाब्धिविरक्तिभाक् सः ।
गन्तुं मनो व्यधित संन्यसनाय दूरं
किं नौस्थितः पतितुमिच्छति वारिराशौ ॥ ६१ ॥

3प्रायाद्गृहात्स्थिरमना मुदितोऽप्रकम्प्य-
स्तुर्याश्रमे कृतमनाः किल दूरदेशम् ।
गोविन्दनाथमुनिमेत्य महानुभाव
संन्यासगृह्य​विधिना विरजन् भवेऽस्मिन् ॥ ६२ ॥

व्यासः पराशरसुतः किल सत्यवत्यां
तस्यात्मजश्शुकमुनिः प्रथितानुभावः ।
तच्छिप्य​तामुपगनः किल गौडपादो
गोविन्दनाथमुनिरस्य च शिष्यभूतः ॥ ६३ ॥

शुश्राव तस्य निकटे किल शास्त्रजालं
यश्चाश्रुणोद्भुजगसद्म​गतस्त्वनन्तात् ।
शब्दाम्बुराशिमखिलं समयं विधाय
यश्चाखिलानि भुवनानि बिभर्ति मूर्ध्ना ॥ ६४ ॥


1क. क्षमे न । 2अ. विरक्तिमान् सः ।

3अ. गत्वा ।