आगच्छतामपि यतां महतां न कार्यं
मुक्त्वा ध्रुवं परमनुग्रहणं परेषाम् ।
पृच्छामि कारणमिहा मने तथापि
प्रष्टुं न चोचतमथापि कुतूहलेन ॥ ७७ ॥
अस्ति प्रयोजनमिहाऽऽगमने यतीन्द्र
वक्ष्यामि तच्छ्रुणु मया कृतसूत्रकाणाम् ।
भाष्यं व्यधायि किल भाष्यमपूर्वमेत-
त्तानि प्रियाणि मम सर्वनिबन्धनेभ्यः ॥ ७८ ॥
तद्द्रष्टुकामो वनमागतोऽह-
मित्युक्तवन्तं यतिरब्रवीत्तम् ।
सत्यं महत्सूनिरीक्षणेन
बुद्धिं पुनामीति न बुद्धिमत्वात् ॥ ७९ ॥
भाष्यं तदुक्त्वार्पिपदस्य हस्ते
हस्तद्वयेनादरतो विनीतः ।
आदाय सर्वत्र निरैक्षतासौ
प्रसादगाम्भीर्यगुणाभिरामम् ॥ ८० ॥
सुत्रानुकारि मृदुवाक्यनिवेदितार्थं
स्वीयैः पदैस्सह निराकृतपूर्वपक्षम्
सिद्धान्तयुक्तिविनिवेशिततत्स्वरूपं
दृष्ट्वाऽभिनन्द्य परितोषवशादवोचत् ॥ ८१ ॥
बह्वर्थगर्भाणि लघूनि यानि
निगूढभावानि चमत्कृतानि ।
त्वामेकमीड्यं विरहय्य नास्ति
यस्तानि सम्यग्विवरीतुमीष्टे ॥ ८२ ॥
पृष्ठम्:शङ्करविजयः.djvu/७२
एतत् पृष्ठम् परिष्कृतम् अस्ति
46
शङ्करविजये