एतत् पृष्ठम् परिष्कृतम् अस्ति


47
चतुर्थस्सर्गः

बर्षाणि षोडश नवयुरिति प्रक्लुप्तं
तावन्ति ते पुनरहं वित​राणि जीवम् ।
अद्वैतदर्शनमिदं कुरु सत्प्र1तिष्ठं
लोके विनोदचरणं 2सहितो विनेयैः ॥ ८३ ॥

निसर्गदुर्ज्ञानतमानि को वा सूत्राण्यलं वेदितुमर्थतस्सन् ।
क्लेशस्तु तावान्विवरीतुरेषां यावान्प्रणेतुर्विदुषो वदन्ति ॥ ८४ ॥

इतीरयन्तं प्रतिवाचमूचे स शङ्करः पावितसर्वलोकः ।
त्वत्सूत्रसम्बन्धवशान्मदीयभाष्यं प्रचारं भुवि यातु विद्वान् ॥ ८५ ॥

इतीरयित्वा चरणौ ववन्दे यतिर्मुनेस्सर्वविदो महात्मा ।
प्रदाय 3संभाष्य​ परं मुनीशो द्वैपायनस्सोऽ4न्तरधाद्यतात्मा ॥ ८६ ॥

अथाऽऽगमद्भ्राह्म​णसूनुरारादधीतवेदोऽधर5यन् स्वभासा।
तेजांसि कश्चित्सरसीरुहाक्षो दिदृक्षमाणः किल देशिकेन्द्रम् ॥ ८७ ॥

आगत्य देशिकपदाम्बुज6योर​पप्तत्
संसारवारिधिमनुत्तममुत्तितीर्षुः ।
वैराग्यवानकृतदारपरिग्रहश्च
कारुण्यनावमधिरुह्य​ दृढां दुरापाम् ॥ ८८ ॥

उत्थाप्य तं गुरुरुवाच गुरुर्द्विजानां
कस्त्वं 7क्व​ घाम कुत आगत आत्तधैर्यः ।
बालोऽप्यवालधिषणः प्रतिभासि मे त्व-
मेकोऽप्यनेक​ 8वदनेकशरीरमासा ॥ ८९ ॥


1अ. सप्रतिष्ठं । 2का. महितो ।

3क. संभाव्य वरं । 4अ. सोऽन्तरयान्माहात्मा ।

5अ. अन्तरयन् । 6का. जयोः प्रणम्य ।

7का. क्व यासि । 8का. इव नैक​शरीरभासा ।