पृष्ठम्:शङ्करविजयः.djvu/७४

एतत् पृष्ठम् परिष्कृतम् अस्ति
48
शङ्करविजये

पृष्टो बभाण गुरुमुत्तरमुत्तरज्ञो
विप्रो गुरो मम गृहं बुध चोलदेशे ।
यत्राऽऽपगा वहति पुण्यकवेरकन्या
यस्याः पयो हरिपदाम्बुजभक्तिमूलम् ॥ ९० ॥

अठाट्य​मानो महतो दिदृक्षुः
क्रमादिमं देशमुपागतोऽस्मि ।
बिभेमि मज्जन् भववारिराशौ
तत्पारगं मां कृपया विधेहि ॥ ९१ ॥

इत्युक्तवन्तं कृपया महात्मा-
प्यदापयत्संन्यसनं यथावत् ।
यं प्राहुरार्यं प्रथमं विनेयं
श्रीदेशिकेन्द्रस्य सनन्दनाख्यम् ॥ ९२ ॥

अत्रान्तरेऽपि जरतीं जननी तदीया
सस्मार शङ्करपदं निकठस्थ​मृत्यु- ।
तच्छङ्करो विदितवान् युयुजे विविक्ते
सोऽन्तर्दधे गगनमण्डलमाससाद ॥ ९३ ॥

योगेन गच्छन् स मुहूर्त​मात्राः
दवातरत्केरलभूविशेषे ।
तद्देशबुद्ध्या पुनरीक्षमाणः
स्वका1लटिं जन्मभुवं प्रपेदे ॥ ९४ ॥

तत्रातुरां मातरमैक्षतासौ
ननाम तस्याश्चरणौ कृतात्मा ।
सा चैनमुद्वीक्ष्य शरीरतापं
जहौ निदाघार्तं इवाम्वुदेन ॥ ९५ ॥