पृष्ठम्:शङ्करविजयः.djvu/७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
49
चतुर्थस्सर्गः

उपादिशद्ब्रह्म1पदं सनातनं
न यत्र हस्ताङ्घ्रिविभागकल्पना ।
अन्तर्बहिस्संनिहितं यथाम्बरं
निरामयं जन्मजरादिवर्जितम् ॥ ९६ ॥

तत्रोपदिष्टे न विवेदं किञ्चि-
न्मातवदच्छङ्कर न 2क्षमेऽहम् ।
त्वयोदितं वेदितुमन्यदेव
वदेति मात्र गदितो न्यगादीत् ॥ ९७ ॥

नारायणं शङ्खगदा3सिपद्मं
दधानमब्जासनमम्बुजाक्षम् ।
4रमाध​र श्लिष्टमदभ्रभूषणं
सनीरनीराम्बुदसंनिकाशम् ॥ ९८ ॥

तं तादृशं निजसुतोदितमम्बुजाक्षं
चित्ते दधार मृतिकाल उपागतेऽपि ।
चित्तेन कञ्जनयनं हृदि भावयन्ती
तत्याज देहमबला किल योगिवत्सा ॥ ९९ ॥

संस्कर्तुकामो जननीं सनाभीन्
जुहाव नायन् किल दुर्विदग्घाः ।
ततो हुताशं प्रतिगेहमार्द​त्
तं चापि नास्मै विततार कश्चित् ॥ १०० ॥

5ञ्छिद्य काष्ठानि सुशुष्कवन्ति
गृहोपकण्ठ धृततोयपात्रः ।
स दक्षिणे दोष्णि ममन्थ वाह्लिं
ददाह तां तेन च संयतात्मा ॥ १०१ ॥


1अ. परं । 2अ. क्षमाऽहम् ।

3अ. अरि । 4अ. धराश्लिष्टमुदग्र​ ।

5अ. सञ्चित्य​ ।

Sankara-4