पृष्ठम्:शङ्करविजयः.djvu/७६

एतत् पृष्ठम् परिष्कृतम् अस्ति
50
शङ्करविजये चतुर्थ​स्सर्गः

न याचिता वह्निमदुर्यदस्मै
शशाप तान् स्वीयजनान् सरोषः ।
अतः परं वेदवह्निकृतास्ते
द्विजा यतीनां न भवेच्च भिक्षा ॥ १०२ ॥

शप्त्वा द्विजातीन्भगवांस्तिरोऽभृद्विहायसासौ बदरीं जगाम ।
अद्यापि तद्देशभवा न वेदमधीयते नो यतिनां च भिक्षा ॥

श्रीशङ्करोत्पत्तिकथाभ्यधायि
तस्यैव जिष्णोर्विजयोऽपि यत्र ।
सर्गश्चतुर्योऽगमदत्र काव्ये
व्यासाचलेनारचिते रसार्द्रे ॥ १०३ ॥

इति श्रीशङ्करविजये व्यासाचलीये चतुर्थस्सर्गः ।