पृष्ठम्:शङ्करविजयः.djvu/८१

एतत् पृष्ठम् परिष्कृतम् अस्ति
55
पञ्चमस्सर्गः

यदा तदीयं शरणं प्रपन्न-
स्सिद्धान्तमश्रौषमनुद्धतात्मा ।
अंददुषद्वैदिकमेव मार्गं
तथागते जातु कुशाग्रबुद्धिः ॥ २५ ॥

तदापतन्मे सहसास्र​ 1बिन्दु-
स्तच्चाविदुः पार्श्वनिवसिनोऽन्ये ।
तदा प्रभृत्येव विवेश शङ्का
मय्याप्तभावं परिहृत्य तेषाम् ॥ २६ ॥

2विपक्षचोदी बलवान् द्विजातिः
प्रत्यादिशेद्दर्शनमस्मस्मदीयम् ।
उच्चाठनीयः कथमप्युपा3या-
नैतादृशः स्थापयितुं हि योग्यः ॥ २७ ॥

समन्त्र्य चेत्थं कृतनिश्चयास्ते
4वाचावरा हिंसनवादशीलाः ।
व्यपातयन्नञ्चतराप्रमत्तं
मामग्र​सौघाद्विनिपातभीरुम् ॥ २८ ॥

पतन्पतन् 5सौधतलादरूरुवं
यदि प्रमाणं श्रुतयो भवन्ति ।
जीवेयमस्मिन्पतितस्समस्थले
मज्जीवनेन 6श्रुतिमानतागतिः ॥ २९ ॥

यदीति सन्देहपदप्रयोगात्
व्याजेन शास्त्रश्रवणाच्च हेतोः ।
ममोच्चदेशात्पततो व्यनाङ्क्षीत्
7तदैव चक्षुर्विधिकल्पना सा ॥ ३० ॥


1अ. श्रु । 2अ. पाटी का पाती ।

3क. उपायैः। 4अ. परा ।

5क. तलान्यरूरुवम् । 6अ. मानिता; क. श्रुतिमानसा ।

7अ. तदैक का यदेक ।