एतत् पृष्ठम् परिष्कृतम् अस्ति


56
शङ्करविजये

एकाक्षरस्यापि गुरुः प्रदाता
शास्त्रोपदेष्टा किमु भाषणीयम् ।
अहञ्च सर्वज्ञ​गुरोरधीत्य
प्रत्यादिशं 1स्तञ्च गेरुं महागः ॥ ३१ ॥

तस्मादहं तत्परिहारहेतो-
श्श​ये मुमूर्षुस्तुषवह्निमृले ।
यदीह किञ्चित्समयं व्यतीत्य
त्वमागमिष्ये न भवामि भिक्षो ॥ ३२ ॥

प्रायश्चित्तं जानता पण्डितेन
प्रायश्चित्तं दोषजातस्य कार्यम् ।
नो चेद्दोषो यान्तमेवानुगच्छेत्
बाधेतैनं 2सर्वथा सर्वचित्तम् ॥ ३३ ॥

भगवन्प्रवदाभ्युपायमेकं
भ​वतो भाष्यनिबन्धने स्फुटम् ।
मगधेषु वसन् ममास्ति शिष्य-
स्स तु तस्मै प्रभवत्यसंशयम् ॥ ३४ ॥

3सदा वदन्योगपदञ्ज​ सांप्रतं
स विश्वरूपः प्रथितो महीतले ।
महागृही वैदिककर्मतत्परः
प्रवृत्तिशास्त्रे निरतस्स कर्मठः ॥ ३५ ॥

निवृत्तिशास्त्रे न कृतादरः स्वयं
केनाप्युपायेन वशं स नीयताम् ।
वशे गते तत्र भवेन्मनोरथ-
स्तदन्तिकं गच्छतु मा चिरं भवान् ॥ ३६ ॥


1क. प्रत्यादिशं तेन गुरुर्महागः । 2अ. सर्वदा ।

3अ. गदावदादोगदपत्रे । (?); का. गदावताद्यगप चदो ।