एतावदुक्त्वा विरराम शङ्करं
स भट्टनामा मरणाय दीक्षितः ।
तत्पार्श्ववर्ती विदितार्थसङ्ग्रह-
स्स मण्डनाख्योऽभिजगाम शङ्करम् ॥ ३७ ॥
निवसति स तु नित्यं यस्य वाणीसरोजे
निपतति कविभृङ्गो यत्र संमाननार्थी ।
परिसरति दिशो यद्वादिवर्गः प्रभग्नो
विहरति परिपुष्टो बन्धुवर्गश्च येन ॥ ३८ ॥
गुरुर्गरीयानपि वित्तहीनो
विद्यासु वृद्धोऽपि गुरुप्रदीपः ।
अयं 1कुरूपी गुरुनित्यवासी
गुरुं विपत्तावपि नो जहाति ॥ ३९ ॥
2गमित एष जनोऽद्य महात्मनो
भगवतस्तव पादसरोरुहम् ।
कुरु दृशं कुपयेति समीपगः
3श्रुतवचास्सहसा स ददौ करम् ॥ ४० ॥
4त्रिमुनिवारमसावपिबज्जलं
रवमयं मुनिवक्त्रबिलोद्भवम् ।
इति मया पुर एव श्रुतोऽप्ययं
नयनगोचरतामधुना गतः ॥ ४१ ॥
इति वचस्सुधयाप्यभिषिक्तवान्
मुनिवरो गृहमेधिशिरोमणिम् ।
5विदितवेद्यमनुद्धतभाषिणं
मुनिजैनरभिवन्द्यपदाम्बुजः ॥ ४२ ॥
1अ. गुरुश्रीः; का. गुरुप्रीः । 2अ. नमित ।
3क. सहसास्य । 4कं. त्रिमुनिसारमसावपि तज्जलं ।
5वितत ।