एतत् पृष्ठम् परिष्कृतम् अस्ति


58
शङ्करविजये पञ्चमस्सर्गः

अथ गिरं गृहिराज उपाददे
मम जनिस्सफला भवदीक्षणात् ।
न खलु लोचनमाश्रयते फलं
1घटपठादिभिरीक्षणमात्रतः ॥ ४३ ॥

भवादृशैस्सङ्गतिरेव नो गति-
र्गृहे स्थितानां सुतदारपोषिणाम् ।
2क्रमेण मोक्तुं भवदीयसेवना-
मतो गृहीत्वार्हसि मामितोऽटितुम् ॥ ४४ ॥

एवं वादिनि मण्डने मृदुमनाः प्रोचे दयालिङ्गितः
श्रुत्याचोदितकर्म एव तनुयास्तेनान्तरं शुद्ध्यति ।
शुद्धेऽन्तःकरणे परिस्फुरति तत् सौख्यात्मकं ब्रह्म ते
शुद्धे दर्पणमण्डले मुख​मिव स्वात्मप्रभं सर्वगम् ॥ ४५ ॥

त्यक्त्वा मण्डन भेदगोचरधियं मिथ्याभिमानात्मिका-
मद्वैते भव निष्ठतो मम वचस्ते रोचते यद्यदः ।
तीर्त्वा संसृतिवारिधिं परपदे ज्ञानप्लवारोहणात्
पारे स्थास्यसि निर्वृतस्सुख​मये संसार3वार्तोज्झिते ॥ ४६ ॥

एवमेनमनुनीय सत्पदै-
र्ब्रह्म​वादनपरैर्गुरुवर्यः ।
म​ण्डनं निजपदे स्थिरभक्तिं
संविधाय गमनाय मनोऽधात् ॥ ४७ ॥

त्राद्धा महिमा प्रयागविषयो भट्टेडिताचार्ययो-
स्संवादेऽप्यघनोदनो निजगदे व्यावर्णितं सौगतम् ।
ास्त्रस्य​ श्रवणं विजेतुमपि तान् व्यासाद्रिसंप्रोदिते
श्रीमच्छङ्करदेशिकेन्द्रविजये सर्गोऽगमत्पञ्चमः ॥ ४८ ॥

॥ इति श्रीशङ्करविजये व्यासाचलीये पचंमस्सर्गः ॥


1अ. क्षण । 2अ. क्षमे न । 3का. वातो ।