पृष्ठम्:शङ्करविजयः.djvu/८५

एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ अथ षष्ठस्सर्गः ॥


अथ प्रतस्थे भगवान्प्रयागात्
दिदृक्षमाणो गृहिविश्वरूपम् ।
विहायसा योगबलेन गच्छन्
अवातरत्त​स्य गृहाङ्कणान्तः ॥ १ ॥

स विश्वरूपः कृतवह्निकार्यः
प्रतीक्षमाणोऽतिथिमातिथेयः ।
उदैक्षतैनं स्वशरीरभाभिः
प्रकाशयन्तं विदिशो दिशश्च ॥ २ ॥

स भिक्षवेऽदृष्टचराय तस्मै
सङ्कल्प्य भिक्षां पदयोरमुष्य ।
चिक्षेप पुष्पं चरणावनेजत्
तत्पाथसात्मानमसिञ्चताद्धा ॥ ३ ॥

प्रक्षालितङ्घ्रिः प्रविवेश काश्चित्
व्यतीत्य 2कक्ष्या गृहमध्यभूमिम् ।
दीपप्रभानिस्सरदन्धकार-
मध्यास्त पीठं परमं मुनीन्द्रः ॥ ४ ॥

आयन्मार्गे देशिकेन्द्रो जनानां
दृष्टेर्मार्गं नाप पापापनोदी ।
ईक्षाञ्चक्रे मन्दिरान्तः प्रविष्ट-
स्तेनैतस्मिन्विस्मयोऽभूत्स तेषाम् ॥ ५ ॥


1क. अनेजेत् । 2अ. कक्षा ।