रौप्यं पात्रं दीप्यमानं तदग्रे
न्यस्या1ज्यादेः पात्रजातं पृथक् च ।
शुभ्रैर्वस्त्रैरूर्ध्वदेशं2 वितेने
शङ्कावर्जे भिक्षितुं जोषमन्तः ॥ ६ ॥
आनर्च पुष्पाक्षतधूपदीपैः
3परं गृहेशो यतिवर्यमेनम् ।
आतिष्ठतां पार्श्वगतौ वटू द्वौ
सचामरौ वीजनकर्म चक्रतुः ॥ ७ ॥
यथोचितं पात्रनिकायमध्ये
तदीयभार्या सुकुमारहस्ता ।
अन्नं घृतं पक्कविशेषजातं
तथोपदंशान् गुडवैकृतानि ॥ ८ ॥
भक्तानि चिक्षेप 4वराभिधान
5यस्यां बभूवोभयभारतीति ।
6पुरा किलाध्यैषत धातुरन्तिके
सर्वज्ञकल्पा मुनयो निजं निजम् ॥ ९ ॥
वेदं तदा दुर्वसनोऽतिकोपनो
वेदानधीयन् क्वचिदस्खलत्स्वरे ।
तदा जहासेन्दुमुखी सरस्वती
यदङ्गमणद्वशब्दसन्ततिः ॥ १० ॥
1का. स्याज्योदः । 2अ. देशे । का. देशान् ।
3अ. भक्तया गृहीशो । 4अ. पराभिधानं ।
5अ. यस्या ।
6इतः पूर्वमयं श्लोकार्धः अ. पुस्तकेऽधिको दृश्यते यथा -- "सरस्खती सा खलु वस्तुवृत्त्या लोकोऽपि तां वक्ति सरस्वतीति” ॥ इति ।