पृष्ठम्:शङ्करविजयः.djvu/८७

एतत् पृष्ठम् परिष्कृतम् अस्ति
61
षष्टस्सर्गः

चुकोप तस्यै दहनानुकारिणा
निरैक्षताक्ष्णा मुनिरुग्रशासनः ।
शशाप तां दुर्विनयेऽवनीतले
जायस्व मर्त्येत्यबिभत्सरस्वती ॥ ११ ॥

प्रसादयामास निसर्गकोपनं
तत्पादमूले पतिता विषादिनी ।
दृष्टा विषण्णा मुनयस्सरस्वतीं
प्रसादयाञ्चक्रुरिमं तमादरात् ॥ १२ ॥

कृतापराधां भगावन् क्षमस्व तां
पितेब​ पुत्रं विहिताग​सं मुने ।
प्रसादितोऽभूदथ संप्रपन्नो
वाण्या मुनीन्द्रैरपि शापमोक्षम् ॥ १३ ॥

ददौ यदा मानुषशङ्करस्य
सन्दर्शनं स्याद्भवितास्यमर्त्या ।
सा शोणतीरेऽजनि विप्रकन्या
सर्वार्थवित्सर्वगुणोपपन्ना ॥ १४ ॥

यस्या बभूवुस्सहजाश्व विद्या
श्शिरोगतं के परिहर्तुमीशाः !
सर्वाणि शास्त्राणि षडङ्गवेदान्
काव्यादिकान्वेत्ति परञ्च सर्वम् ॥ १५ ॥

तन्नास्ति नो वेत्ति यदत्र बाला
तस्मादभूच्चित्रपदं जनानाम् ।
सा विश्वरूपं गुणिनं गुणज्ञा
मनोभिरामं द्विजपुङ्गवेभ्यः ॥ १६ ॥