एतत् पृष्ठम् परिष्कृतम् अस्ति


62
शङ्करविजये

शुश्राव ताञ्चापि स विश्वरूपो
जातं तयोर्दर्शनलालसं मनः ।
अन्योन्यसंदर्शनलालसौ तौ
चिन्ताप्रकर्षादधिगम्य निद्राम् ॥ १७ ॥

अवाप्य सन्दर्शनभाषणानेि
पुनः प्रबुद्धौ विरहाग्नितप्तौ ।
दिदृक्षमाणावापि नेक्षमाणा-
वन्याेन्यवार्ताहृतमानसौ तौ ॥ १८ ॥

यथोचिताहारविहारहीनौ-
तनोस्तनुत्वं स्मरणादुपैताम्1
दृष्ट्वा तदीयौ पितरौ कदाचि-
दपृच्छतां तौ परिकार्शितङ्गौ ॥ १९ ॥

वपुःकृशं ते मनसोऽप्यगर्वो
न व्याधिमीक्षे न च हेतुमभ्यम् ।
इष्टस्य हानेरनभीष्टयोग-
द्भ​वन्ति दुःखानि शरीरभाजाम् ॥ २० ॥

वीक्षे न तौ द्वावपि 2वीक्षमणो
विना निदानं न हि कार्यजन्म ।
न तेऽत्यगादुद्वहनस्य कालः
परावमनो न च निःस्वता वा ॥ २१ ॥

कुटुम्बभारो मयि दुस्सहोऽयं
कुमारवृत्तेस्तव कात्र पीडा ।
न मूढभावः परितापहेतुः
पराजितिर्वा तव तन्निदानम् ॥ २२ ॥


1अ. पेत्रौ । 2अ. वीक्ष्यमाणौ ।