पृष्ठम्:शङ्करविजयः.djvu/९

पुटमेतत् सुपुष्टितम्

प्रास्ताविकम्


सच्चित्सुखात्मकं शान्तं जगतामेककारणम् ।
मामव्यान्मामकं ज्योतिरान्तरं सर्वदेहिनाम् ॥

शाङ्करो विजयोऽनेकैः कविभिः समुदीरितः ।
व्यासाचलेरितस्तत्र प्राकाश्यं नीयतेऽधुना ॥


 अत्रेदमस्माकमत्याश्चर्यनिदानं प्रतिभाति यदयं ग्रन्थकृत् व्यासाचलः शङ्करगुरुपरम्परानाम्नि निबन्धे श्रीयुत-आत्रेयकृष्णशास्त्रिचरणैः प्रतिपादितया दिशा श्रीकाञ्चीकामकोटिपीठमध्यासीनोऽपि तत्सम्बन्धिनं कमपि वा विषयं कुत्रापि लेशेतोऽपि स्वारचितेऽत्र प्रबन्धे न समुपास्थापयदिति

 If what Atreya Krishna Sastri says is correct, it is rather strange that Vyasacala who was a head of the Kānci Kamakoti Mutt, has not even mentioned by name that mutt, the life of the founder of which is described in this work.


टकादिसच्छिष्यसङ्घातः, स्वघिषणावैभववशीकृतमण्डनादिपण्डितप्रकाण्डः,निराकृतशैव-भक्त-भागवत-वैष्णव-पाञ्चरात्र-वैस्वानस - विष्णु-हिरण्यगर्भ-अग्निवादि-सौर- महागणपति-गाणपत्येकदेशि-उच्छिष्टगणपति - गणपतिमतत्रय-शक्ति-कापालिक- चार्वाक-सौगत-जैन-बौद्ध-मल्लारि-विष्वक्सेन-मन्मथ-कुबेर-इन्द्र-यम- वरुण-वायु-भूमि -उदक-शून्य-वराह-लोक-गुण-सांख्य-योग-पीलु-कर्म-चन्द्र-भौमादिग्रह-पञ्चक-क्षपणक-पितृशेष-गरुड-सिद्ध-गन्धर्व-भूत-वेतालादिपाषण्डादिदुर्मतसञ्चयः, समटित-मध्यार्जुन-रामेश्वर-अनन्तशयन-गुणपुर - भवानीपुर-कुवलयपुर-उज्जयीनी-अनुमल्ल-वरूधपुरी-अर्थपुर-इन्द्रप्रस्थ - धर्मप्रस्थ -प्रयाग-वाराणसी - केदार-बदरी-