पृष्ठम्:शङ्करविजयः.djvu/९२

एतत् पृष्ठम् परिष्कृतम् अस्ति
66
शङ्करविजये

पृच्छाव सा वदति यं भविता वरोऽस्या
एवं विधाय समयं पितरौ कुमार्याः ।
अभ्याशमीयतुरितो गदितेष्टकार्यौ
श्रीविश्वरूपगुरुण प्रहितौ द्विजौ द्वौ ॥ ४१ ॥

कन्यार्थिनौ सुतनु किं करवाव वाक्यात्
तस्याः प्रमोदनिचयो न ममाै शरीरे ।
रोमाञ्चपूरमिषतो बहिरुज्जगाम
तेनैव सा प्रतिवचः प्रददौ पितृभ्याम् ॥ ४२ ॥

तेनैव तावपि तयोर्युगलाय सत्य-
मादाय विप्रमपरं पितृगेह​तोऽस्याः ।
तौ जग्मतुर्द्विजवरौ स्वनिकेतनाय
................ ? ॥ ४३ ॥

अस्माच्चतुर्दशदिने भविता दशम्यां
1जामित्रतादिगुणपूगयुतो मुहूर्तः ।
एवं विलिख्य गणितादिषु कौशलस्य
विख्यापनाय दिशति स्म सरस्वती सा ॥ ४४ ॥

तौ हृष्टपुष्टमनसौ विहितेष्टकार्यो
श्रीविश्वरूपगुरुमुत्तममैक्षिषाताम् ।
सिद्धं समीहितमिति 2प्रथितानुभावौ
दृष्टै्व​व तन्मुख​मसावथ निश्रिकाय ॥ ४५ ॥

अन्यः स्वहस्तगतपत्रमथार्पिपत्तत्
दृष्ट्वा जहास सुखवारिनिधौ ममज्ज ।
विप्रान् यथोचितमपुपुजदागतांस्तान्
रत्नांशुकादिभिरयं बहुविप्तलभ्यैः ॥ ४६ ॥


1क. शामित्र । 2अ. भावो ।