सर्वज्ञतालक्षणमस्ति पूर्णमेषा कदाचिद्वदतोः कथायाम् ।
तत्साक्षिभावं व्रजितानवद्या सन्दिश्य नावेवमसौ जगाम ॥ ६५ ॥
श्वश्रूर्वराया वचनेन वाच्या
स्नुषाभिरक्ष्या यतते हि तस्याम् ।
निक्षेपभूता तव सुन्दरीयं
कार्या गृहे कर्म शनैः शनैस्ते ॥ ६६ ॥
बालेषु वाल्यात्सुलभोऽपराध-
स्स नेक्षणीयो गृहिणीजनेन ।
वयं सुतीभूय हि सर्व एव
पश्चाद्गुरुत्वं शनकैः प्रयाताः ॥ ६७ ॥
दृष्ट्वाभिधातुञ्च मनोऽस्मदीयं ?
गेहाभिरक्षणविधौ न हि दृश्यतेऽन्यः ।
दृष्ट्वाभिधानफलमेव भवेद्यथा नौ
भूयात्तदेष्टजनतां जननीं वरस्य ॥ ६८ ॥
वत्से त्वमद्य गमितासि दशामपूर्वां
तद्रक्षणे निपुणधीर्भव सुभ्रु नित्यम् ।
कुर्यान्न बालविहृतिं जनतोपहास्यां
सा नाविवापरमियं 1परितोषयेत्ते ॥ ६९ ॥
पाणिग्रहात्स्वामियुतं समीरितं
पुरा कुमार्याः पितरौ ततः परम् ।
पतिस्तमेकं शरणं व्रजानिशं
लोकद्वयं जेष्यसि येन दुर्जयम् ॥ ७० ॥
1अ. परिपोषयेत्ते ।