पृष्ठम्:शङ्करविजयः.djvu/९७

एतत् पृष्ठम् परिष्कृतम् अस्ति
71
षष्टस्सर्गः

पत्यावभुक्तवति सुन्दरि माशु भुङ्क्थाः
याते प्रवासमपि मा स्म भवद्विभूषा ।
पूर्वापरादिनियमोऽस्ति निमज्जनादौ
वृद्धाङ्गनाचरितमेव परं प्रमाणम् ॥ ७१ ॥

रुष्टे घवे ह युयुजे ह न वाच्यमेकं
क्षन्तव्यमेव निखिलं स तु शाम्यतीत्थम् ।
तस्मिन्प्रसन्नवदने 1चकितेव वग्धि
सिद्ध्यत्यभीष्टमनघे क्षमयैव सर्वम् ॥ ७२ ॥

भर्तुस्समक्षमपि तद्वदनं समीक्ष्य
वाच्यो न जातु सुभगे परपूरुषस्ते ।
किं वाच्य एष रहसीति तवोपदेश-
श्शङ्का वधूपुरुषयोः क्षपयेद्धि हार्दम् ॥ ७३ ॥

आयाति भर्तरि तु पुत्रि विहाय कार्य-
मुत्थाय शीघ्रमुदकेन 2पदावनेन ।
कार्यं यथाभिरुचितं सति जीवनं वा
नोपेक्षणीयमणुमात्रमपीह कान्ते ॥ ७४ ॥

घवे परोक्षेऽपि कदाचिदेयुर्गुहं तदीया अपि वा महान्तः ।
ते पूजनीया बहुमानपूर्वं नो चेत् निराशाः कुलदाहकाः स्युः ॥ ७५ ॥

पित्रोरिव श्वशुरयोरनुवर्तितव्यं
तद्वन्मृगाक्षि सहजेष्विव देवरेषु ।
ते स्नेहिनोऽपि कुपिता इतरेतरस्य
योगं विभिन्द्युरिति में मनसि प्रतर्कः ॥ ७६ ॥


1अ. चकिते च भद्रे ।; का. चकितेव भूयाः ।

2अ. अनेजः ।; का वसेकम् ।