एतत् पृष्ठम् परिष्कृतम् अस्ति


72
शङ्करविजये

हितोपदेशे विनिविष्टमानसौ
वधूवरौ राजपुरं समीयतुः ।
लब्धानुमानौ गुरुबन्धुवर्गतो
बभूव संज्ञोभयभारतीति ॥ ७७ ॥

सा भारती चुलुकिते भगवत्पदस्य
हस्ते जलं समदिता1च्छमनोहराङ्गी ।
तस्थौ मुनेस्तदनु कारणमानुषस्य
मूर्तिं शिवस्य मुदिता समुदीक्षमाणा ॥ ७८ ॥

पाथश्चिरं संदधदेव शङ्करो
न चापिबन्नापि मुमोच चिन्तया ।
तदा मनः क्षोभमियाय गेहिनः
किमेतदासीदिति चिन्तयाकुलम् ॥ ७९ ॥

भृत्यापराधोऽयमथात्मनो वा
केनेदमानायि ज​लं कुतो वा ।
को वार्पिपद्भिक्षुपदेऽमलेऽस्मिन्
न चिन्तयन् हेतुमवैक्षतासौ ॥ ८० ॥

आनाय चैत्रेण जलं सरस्या-
स्समार्पिपत्सोभयभारतीति ।
अवादिषुस्तत्र जनास्समक्षं
ततश्शशङ्गे किल विश्वरूपः ॥ ८१ ॥

नागस्कृतः परिजना न जलं न पेयं
पानीयमेव भवति ध्रुवमस्य कोपः ।
जायेत सस्मितमुखं मुनिमेनमीक्षे
हेत्वन्तरं न च यतोऽस्य पयः प्रकल्प्यस् ॥ ८२ ॥


1अ. अतिमनोहराङ्गी ।