पुटमेतत् सुपुष्टितम्
८८
दक्षिणामूर्तिस्तोत्रम् ।
मुदिताय मुग्धशशिनावतंसिने
भसितावलेपरमणीयमूर्तये ।
जगदिन्द्रजालरचनापटीयसे
महसे नमोऽस्तु वटमूलवासिने ॥ १६ ॥
व्यालाम्बिनीभिः परितो जटाभिः
कलावशेषेण कलाधरेण ।
पश्यल्ललाटेन मुखेन्दुना च
प्रकाशसे चेतसि निर्मलानाम् ॥ १७ ॥
उपासकानां त्वमुमासहायः
पूर्णेन्दुभावं प्रकटीकरोषि ।
यदद्य ते दर्शनमात्रतो में
द्रवत्यहो मानसचन्द्रकान्तः ॥ १८ ॥
यस्ते प्रसन्नामनुसन्दधानो
मूर्तिं मुदा मुग्धशशाङ्कमौलेः ।
ऐश्वर्यमायुर्लभते च विद्या-
मन्ते च वेदान्तमहारहस्यम् ॥ १९ ॥
इति दक्षिणामूर्तिस्तोत्रं संपूर्णम् ॥