पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१३०

पुटमेतत् सुपुष्टितम्
११८
षट्पदीस्तोत्रम् ।


उद्धृतनग नगभिदनुज
धनुजकुलामित्र मित्रशशिदृष्टे ।
दृष्टे भवति प्रभवति
न भवति किं भवतिरस्कार ॥ ४ ॥

मत्स्यादिभिरवतारै-
रवतारवतावता सदा वसुधाम् ।
परमेश्वर परिपाल्यो
भवता भवतापभीतोऽहम् ॥ ५ ॥

दामोदर गुणमन्दिर
सुन्दरवदनारविन्द गोविन्द ।
भवजलधिमथनमन्दर
परम दरमपनय त्व मे ॥ ६ ॥

नारायण करुणामय
शरण करवाणि तावकौ चरणौ ।
इति षट्पदी मदीये
वदनसरोजे सदा वसतु ॥ ७ ॥


इति षट्पदीस्तोत्र सपूर्णम् ॥