पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१३२

पुटमेतत् सुपुष्टितम्
१२०
भ्रमराम्बाष्टकम् ।


षट्तारा गणदीपिका शिवसती षड्वैरिवर्गापहा
षट्चक्रान्तरसस्थिता वरसुधा षड्योगिनीवेष्टिताम् ।
षट्चक्राञ्चितपादुकाञ्चितपदा षड्भावगा षोडशीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातर भावये ॥ ४ ॥

श्रीनाथादृतपालितत्रिभुवना श्रीचक्रसंचारिणीं
ज्ञानासक्तमनोजयौवनलसद्गन्धर्वकन्यादृताम् ।
दीनानामतिवेलभाग्यजननीं दिव्याम्बरालकृता
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातर भावये ॥ ५ ॥

लावण्याधिकभूषिताङ्गलतिका लाक्षालसद्रागिणीं
सेवायातसमस्तदेववनिता सीमन्तभूषान्विताम ।
भावोल्लासवशीकृतप्रियतमा भण्डासुरच्छेदिनी
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातर भावये ॥ ६ ॥

धन्या सोमविभावनीयचरिता धाराधरश्यामला
मुन्याराधनमेधिनीं सुमवता मुक्तिप्रदानव्रताम् ।
कन्यापूजनसुप्रसन्नहृदया काञ्चीलसन्मध्यमा
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातर भावये ॥ ७ ॥